Wednesday, June 1, 2022

अथोन्मादनिदानम्

 1

अथोन्मादनिदानम् 

मदयन्त्युद्गता दोषा यस्मादुन्मार्गमार्गताः । मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः ॥ १ ॥

मदात्यये 'उन्मादमिव चापरम्'-इत्यनेनोन्मादसंकीर्तन मुन्मादसादृश्यं चोक्तं, तथा मदात्ययेऽपि दाहो भवतीति खल्पवक्तव्यतया दाहमभिधायोन्मादारम्भः, तस्य निरुक्तिमाह-मदयन्तीत्यादि । मदयन्ति मनोविभ्रमं कुर्वन्ति, उन्मार्गमागता बिभार्गभागता मनोबधमनीरनुप्राप्ताः । उद्गता वृद्धाः, अथवोर्ध्वं हृदयं गताः, ऐतेनोत्पूर्वेणैव दोषाणां वृद्धत्वं विमार्गगत्वं च दर्शितम् ॥ १ ॥


एकैकशः सर्वशश्च दोषैरत्यर्थ मूच्छितैः ।मानसेन च दुःखेन स च पञ्चविधो मतः ॥२ ॥

विषाद्भवति षष्ठश्च यथास्वं तत्र सेषजम् । स चाप्रवृद्धस्तरुणो मदसंज्ञां विभर्ति च ॥ ३ ॥

प्रकारभेदमाह– एकैकश इत्यादि । मानसेन च दुःखेनेति शोकादिना । स चेति षड्विधोऽपि । अत्राप्रवृद्ध पदमुपादायापि तरुणपदप्रयोगं कुर्वता सुश्रुतेन स्वतन्त्रोऽपि दोषजनितो मदो भवतीति दर्शितम् । अत एव चरके विधिशोणितीयाध्याये (च. सू. स्था. अ. २४) उन्मादात्पृथगेव पठितः सनिदान चिकित्सित इति ॥ २ ॥ ३ ॥

विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम् ।
उन्मादहेतुर्भयहर्षपूर्वी मनोऽभिघातो विषमाश्च चेष्टाः ॥ ४ ॥

* 'यस्माद्दोषा मदयन्ति मनोविश्रमं कुर्वन्ति भतोऽयं मानसो व्याधिरुन्माद इति कीत्यंत इति संबन्धः । अथवा ऊर्ध्व हृदयं गताः' (आ० द० ) ॥ १ ॥ 'तस्य – एकैकश इत्यादि । वातेन पित्तेन श्लेष्मणा, सर्वश इति सन्निपातेन, अत्यर्थमूच्छितैरतिप्रवृद्धैः, विषात् षष्ठो भवति । स चाप्रवृद्ध इति स विकारः यावत् प्रवृद्धो वृद्धि गतो न भवति, यावच तरुणस्तावन्मद इति संज्ञां विभर्ति मद इति कथ्यत इत्यर्थ:' ( आ० द० ) ॥ २ ॥ ३ ॥ दुष्टं गरदुष्टमन्नादि, अशुचिभोजनं चाण्डालादिरपृष्टं, प्रधर्षणं निन्दायभिभवनं'( भा० द०) ॥ ४ ॥ [१] 'वन्मार्गमाश्रिताः' इति क. । २ 'वेन ततः पूर्वेणव' इति कः ।
सामान्यदेवमाह - विरुद्धेत्यादि । दुष्टं गरसहितमन्त्रादि । प्रधर्षर्ण 'धूप' प्रथर्षणे, इत्यस्मात् प्रधर्षणमभिभवः । भयहर्षपूर्वी मनोभिषात इति भयहर्षाभ्यां मनसो ऽभिभवः, भगहर्षपूर्व इति भयं इयाँ हो वा पूर्व यस्य स तथा पूर्वशब्दोऽत्र कारण याची; चकारोऽय उप्तनिर्दिशे द्रष्टव्यः तेन कामक्रोधलोभादयोऽपि कारणमिति जेजटः; अन्ये खाहु:-कोधादिभिरपि भयहर्षपूर्वक एवं भवतीति, तेन तो निर्दिष्टौ । विषमाथ बेटा इति विषमाङ्गन्या सबल वद्विप्रह्लादय उन्मादहेतव इति योज्यम् ॥ ४ ॥

तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदृष्य ।
स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः ॥ ५ ॥

संप्रासिमाह-तैरित्यादि । तैरुक्कहेतुभिः । अल्पसत्त्वस्य अल्पसत्त्वगुणस्येति चक्रः; जेनटस्त्वाइ-सत्वं मनः, तस्य चाल्पत्वं रजस्तमोभ्यामावृतत्वेनाल्पज्ञानजनकत्वात् । मला बातादयः । बुद्धेर्निवास हृदयमित्यनेन हृदयस्याश्रयस्य दुथ्वा तदाश्रितज्ञानस्यापि दुष्टिर्भवतीति दर्शयति । स्रोतांसि मनोवहानीति हृदयाश्रिता दश धमन्य एतच विशेषेण बोध्यं निखिलदेहस्रोतसामेव मनोऽधिष्ठानत्वेन चरके दर्शितत्वात् । अधिष्ठाय व्याप्येत्यर्थः ॥ ५ ॥

धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च ।
अबद्धवाक्त्वं हृदयं च शून्यं सामान्यमुन्माद्गदस्य लिङ्गम् ॥ ६ ॥
सामान्य रूपमाह – घीविभ्रम इत्यादि । एतत् सामान्यं पूर्वरूपमिति जेजटः, सामान्यरूपमिति चकः । धीविभ्रमो भ्रान्तज्ञानत्वम् । सत्त्वपरिवो मनसश्चञ्चलत्वम् । अधीरता कातरत्वम् । अवद्धवाक्त्वमसंबद्धवचनत्वम् । लिङ्ग्यतेऽनेनेति लिङ्गं, तेन पूर्वरूपं रूपं चेति व्याख्यातम् ॥ ६ ॥

रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनिलोऽतिवृद्धः ।
चिन्तादिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम् ॥७॥
अस्थानहासस्मितनृत्यगीतवागङ्गविक्षेपण रोदनानि ।
पारुष्यकार्यारुणवर्णताश्च जीर्णे बलं चानिलजस्य रूपम् ॥ ८ ॥
वातजमाह—रुक्षेत्यादि । विरेकशब्देनात्र वान्तिरप्यभिधीयते, विरेचयति देहा न्मलं पृथकरोतीति व्युत्पत्त्या । अस्थानहासेत्यादि अस्थानेऽविषये हासोऽस्थानहासःवातादयः प्रदुष्टाः 'संप्राप्तिमाह-तेरित्यादि । अल्पसत्त्वस्य नरस्य मला सन्तो बुद्धेर्निवासं हृदयं प्रदूष्य मनोवद्दानि स्रोतांस्य धिष्ठाय व्याप्याशु चेतः प्रमोदयन्ति' (आ० द०) ॥ ५ ॥ पर्याकुला दृष्टिरिति बाकुलावलोकनम् । अन्ये तु हृदयं शून्यमित्यन्तं धीविभ्रमत्वादिसामान्यलचणमेवाहु:' (आ० द० ) ॥ ६ ॥ 1‘एतदाविकोन्मादलक्षणम् । रुक्षाल्पशीताश्रमोंज्यैः । धातुक्षयो रसादिधातुक्षयः, एतैर्दुष्टो वायुधिन्ताशोकादिदुष्टं हृदयं मनः प्रविश्य बुद्धिं स्मृतिं च शीघ्रमुपइन्ति । अनुभूतार्थसारणं स्मृति: । पारुभ्यं रौक्ष्वं, कायं कृशता, अरुणवर्णता ईषद्भक्तवर्णता'

एवमस्थानशब्दः स्मितादिषु प्रयोज्यः । स्मितमीषद्धासः । अङ्गविक्षेपो विरुद्धचेष्टा । जीर्णे बलमिति जीर्णे आहारे व्याधेर्बलं भवति ॥ ७ ॥ ८ ॥

अजीर्णकद्दम्ल विदाह्यशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम् ।
उन्मादमत्युग्रमनात्मकस्य हृदि स्थितं पूर्ववदाशु कुर्यात् ॥ ९ ॥
अमर्षसंरम्भविनग्नभावाः सन्तर्जनातिद्रवणौष्ण्यरोषाः ।
प्रच्छायशीतान्नजलामिलापः पीता च भाः पित्तकृतस्य लिङ्गम् ॥ १० ॥

पित्तनमाह- अजीर्णेत्यादि । अशीतैरिति उष्णैः । उन्मादमत्युग्रमिति अत्युत्रं तीव्रवेगं, 'उन्मादयत्युग्रं' इति पाठान्तरे उग्रं यथा भवति तथोन्मादं जनयति । अनात्मकस्य अनात्मवतः । पूर्ववदिति चिन्तादिदुष्टहृदयस्य बुद्ध्यादिकमुपहत्येत्यादि संप्राप्त्या । कुर्यादिति वक्ष्यमाणं लिङ्गमिति शेषः । अत्र पक्षे किं तल्लिङ्गमित्याह अमर्षेत्यादि । – अमर्षोऽसहिष्णुत्वं, न तु रोषः; तस्य वक्ष्यमाणत्वात् । संरम्भ आरभटी; विननभावो नम्रत्वम् । संतर्जनं परित्रासनं, अतिद्रवणं पलायनं, औष्ण्यं गात्रस्य; औष्ठ्यमिति पाठान्तरे विकृतष्ठत्वम् । प्रच्छायशीतान्नजलाभिलाष इति छायायां शीतयोरन्नजलयोथाभिलाषः ॥ ९ ॥ १० ॥

संपूरणैर्मन्द विचेष्टितस्य सोष्मा कफो मर्मणि संप्रदुष्टः ।
बुद्धिं स्मृतिं चाप्युपहत्य चित्तं प्रमोहयन् संजनयेद्विकारम् ॥११॥
वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियताऽतिनिद्रा ।
छर्दिश्च लाला च बलं च भुक्ते नखादिशौक्लथं च कफात्मके स्यात् ॥ १२ ॥

कफजमाद- संपूरणैरित्यादि । मन्दविचेष्टितस्य आयासशून्यस्य । संपूरणैर्भोजना दिभिः, कफो दुष्ट इति संबन्धः । सोष्मा सपित्तः । कफेनापि क्रियमाण उन्मादो ऽवश्यं सपित्तेन क्रियते व्याधिमहिन्ना, यथा मूच्छी । अन्ये त्वाहुः—–केवल कफेनापि क्रियते, सोष्मपदेन तु द्वन्द्वजोऽपि भवतीति सूच्यते । अन्ये लाहुः – ऊष्मशब्देन शक्तिरुच्यते, तेनोत्कृष्टशक्तिकः कफ इत्यर्थः । मर्मणीति हृदये । विकारमुन्मादम् । नारीविविक्तप्रियतेति नारीप्रियता विजनप्रियता च । बलं च भुक्ते इति 'व्याधेः' इति शेषः । नखादीत्यादिशब्देन लड्मूत्रनेत्रादीनां ग्रहणम् ॥ ११ ॥ १२ ॥

यः सन्निपातप्रभवोऽतिघोरः सर्वैः समस्तैः स च हेतुभिः स्यात् ।
सर्वाणि रूपाणि विभर्ति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्यः ॥ १३ ॥

* 'अजीर्णादिभिश्चितं संचयतां गतमुदीर्णवेगं पित्तं पूर्ववच्चिन्तादिदुष्टहृदयस्य बुद्धया दिकमुपइन्ति । अजीर्णमविदग्धं, संरभ आरभटी, हस्तपादादिविक्षेपणमित्यन्ये । विनन भावो वस्त्रादित्यागः, सन्तर्जनं परित्रासनं भत्सनमपरस्येत्यर्थः । चोषो दाहविशेषः । पीता च माः पीतवर्णता' ( आ० द० ) ॥ ९ ॥ १० ॥ चित्तं प्रमोदयन् बुद्धिं स्मृतिं चोपहत्योन्मादं करोति वाक्चेष्टितं मन्दमल्पं, निद्रा बाडुपं, छर्दिः, लालास्रावः, नखनेत्रादीनां शौक्ल्यं ' ( आ० द० ) ॥ ११ ॥ १२ ॥ 'सन्निपातग्रहणेनैव सर्वात्मकत्वं लब्धं पुनः सर्वैरिति यद्ब्रहणं कृतं तद्रजस्तमोग्रहणार्थं, तेन रजस्तमोमिलितैरित्यर्थः; तेन वातादयो रजस्तमोभिर्मनोदोषै मिलिताः समस्तैश्र

साधिपातिकमाह-य इत्यादि । सर्वैः समन्तेरिति सर्वेरिति कृत्वाऽपि यत् समस्ते रिति करोति तेनैवं बोधयति, वातादयोऽनेकैः खनिदानः कुपिता उन्मादं जनयन्ति, च किंचिदेव द्रव्यमामलक्यादि, तत्तु नात्र यौगिकं न हि सर्वाणि सर्वत्र यौगिकानि भवन्ति' इति वचनात् । ननु यदेवं तदा सर्व एव हि त्रिदोषजविकारा असाध्या भवेयुरित्यत उर्फ तादृगिति । कोऽन्ययं संप्राप्तिविशेषो रोगविशेषो वा, येनार्य विरुद्ध भैषज्य विधिने | तु सर्व इत्यर्थः । अन्ये त्वादुः सर्वैः समस्तेर्हेतुभिः कृतः स एवासाध्यः, न खल्पहेतुकृत इति ॥ १३ ॥


नतु प्रत्येकमेकनिदानकुपिताः । विरुद्धभैषज्यविधिर्विवज्यं इति । अयमभिसम्बि: त्रिदोषजे प्रत्येकं वातादिप्रत्यनीका क्रिया कार्या, सा च परसरविरोधिनी, त्रिदोषहरं

चोरैर्नरेन्द्र पुरुषैररिभिस्तथाऽन्यै वित्रासितस्य धनबान्धवसंक्षयाद्वा ।
गाढं क्षते मनसि च प्रियया रिरंसो जयेत चोत्कटतमो मनसो विकारः ॥ १४ ॥
चित्रं ब्रवीति च मनोऽनुगतं विसंज्ञो गायत्यथो हसति रोदिति चापि मूढः ।

शोकादिजमाह-चोरैरित्यादि। क्षते उपहते, प्रियया रिरंसोः कामुकस्य, अप्राप्तया प्रियया क्षते मनसीति संबन्धः। तस्य लक्षणमाह- चित्रमित्यादि। चित्रं विविधम्। मनोऽनुगतं गोप्यमपि। विसंज्ञो विपरीतज्ञानः, अत एव मूढः॥ १४ ॥

रिक्तेक्षणो हतबलेन्द्रियभाः सुदीन: श्यावाननो विषकृतेऽथ भवेद्विसंज्ञः ॥ १५ ॥

विषजमाह-रक्तेक्षण इत्यादि । हतबलेन्द्रियभा इति इतं बलमिन्द्रियाणि भाव यस्य स तथा । भा दीप्तिः ॥ १५ ॥

अवाञ्ची वाऽप्युदञ्ची वा क्षीणमांसवलो नरः । जागरूको ह्यसंदेहमुन्मादेन विनश्यति ॥ १६ ॥

असाध्यलक्षणमाह-अवाचीत्यादि । अवाची अधोमुखः, उदवी ऊर्ध्वमुखः, अत एवान्ये 'अवायुखस्तून्मुखो वा' इति पठन्ति । जागरूकोऽनिद्रः ॥ १६ ॥ निदानेः कुपिता उन्मादं जनयन्ति । सर्वाणि रूपाणि सर्वदोषलक्षणानि विनति । तादृ गिति तादृशः । कोऽप्येष त्रिदोषसंप्राप्तिविशेषो रोगविशेषो वा, येनायं विरुद्धनेषज्यविधि विवर्ज्य:' ( मा० द० ) ॥ १३ ॥ ● 'मनोदुःखजमाइ-चौरैरित्यादि । नरेन्द्रपुरुषैर्नृपाविकारिभिः, अरिमिति सिद्धगनादिभिः वित्रासितस्य क्रोध शस्त्रादिनिः। द्रव्यविनाशाद पुत्रादिमरणावा गाई क्षते मनसीति संबन्ध:' ( आ० द० ) ॥ १४ ॥ 'श्यावाननः कृष्णमुखो विषजनितोन्मादेन' ( भा० द० ) ॥ १५ ॥ 'क्षीणे मांस बलमोजश्च यस्य  स तथा

अमर्त्यवाग्विक्रमवीर्यचेष्टशे ज्ञाना दिविज्ञानबलादिभिर्थः ।
उन्मादकालोऽ नियतश्च यस्य भृतोत्थमुन्मादमुदाहरेत्तम् ॥ १७ ॥
भौतिकोन्मादस्य सामान्यलक्षणमाह अमत्यैवागित्यादि । अमला अमनुष्या अनुभ चिता वा वागादयो यस्य स तथा विक्रमः पराक्रमः, वीर्य शक्तिः, चेश शारीरिकी क्रिया । ज्ञानादिविज्ञानबलादिभिरित्युपलक्षणे तृतीया । ज्ञानं तत्त्वज्ञानं विज्ञानं रे शिल्यादिज्ञानं; किंवा ज्ञानं शास्त्रज्ञानं, विज्ञानं तदर्थनिश्चयः; आदिशब्देन स्मृत्यादीनां ग्रहणं, तेषां बलम् । अनियत इति न वातजादिवदाहारजीर्णादिकालवत् कालनियमः । नियत इति पाठे तु वक्ष्यमाणनियततिथ्यादीनां ग्रहणं, देवप्रहाः पौर्णमास्यामित्यादि । भूतशब्देनात्र सर्व एव वक्ष्यमाणा देवादयोऽभिधीयन्ते ॥ १७ ॥

संतुष्टः शुचिरतिदिव्यमाल्यगन्धो निस्तन्द्वीरवितथसंस्कृतप्रभाषी ।
तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः ॥१८॥
देवजुश्माह-संतुष्ट इत्यादि । अतिदिव्यमाल्यगन्ध इति अतिमात्रो दिव्यमाल्य स्थेव गन्धो यस्य स तथा निस्तन्दीरनिद्रः । अवितथं सत्यम् । विदेहेऽपि - "निःस्वप्नं सत्यसंस्कृतभाषिणम्" इति पठितम् । ब्रह्मण्यो ब्राह्मणानुरक्तः । देवजुष्टो देवग्रहपीडितः । देवग्रहणेन गणमातृकादयोऽपि ग्राह्याः । विदेहेऽपि पठ्यते, "क्रोधनः स्रस्तसर्वाङ्गो लालाफेनाविलाननः । निद्रालुः कम्पनो मूको गणमातृभिर दितः" इति ।। १८ ।।

संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्याक्षो विगतभयो विमार्गदृष्टिः ।
संतुष्टो न भवति चान्नपानजातैर्दुष्टात्मा भवति स देवशत्रुजुष्टः ॥ १९ ॥
देवशत्रुञ्जुष्टमाह- संखेदीत्यादि ॥ १९ ॥

ईदृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः ।
नृत्यन्वै ग्रहसति चारु गन्धर्वग्रहपरिपीडितो मनुष्यः ॥ २० ॥

अनियत इति कदाचिन्मध्याहे कदाचित्प्रदोषे, न तु वातादिनवदाहार जीर्णादिका ऋनियमः तं भूतोत्यमुन्मादं कथयेत्' ( आ० द० ) ॥ १७ ॥ 'संतुष्टः संतोषवान्, शुचिः सानाचमनादिना । अवितथं सत्यं संस्कृतं च प्रभाषत दवि। वेजसी तेजोयुक्तः, सिरनयनो निमेषरहितः, वरदाता, यतो ब्रह्मण्यो ब्रह्मणानु रक' ( भा० द० ) ॥ १८ ॥ 'मुजुमा संखेदीत्यादि । यः संखेदी खेद्रवान्, माझणगुरुदेवानां निन्दकः, कुटिल्ट: विमार्गदृष्टिः श्रुतिधर्मनिन्द्रकः अन्नं शालिमांसादि, पानं क्षीरम याद है संतु न भवति । दुष्टात्मा पापबुद्धिः । एवंविधो देवशत्रुजुष्टो भवति'।॥ १९ ॥ 'इष्टात्मा विन्वादिरहितः संतुष्टात्मा पुलिनं नयादितदं वनमुयानं तयोरन्तरं मध्ये सात प्रति' ॥ २० ॥
गन्धर्वाविद्यमाह-हटेत्यादि । पुलिनं तयोर्ड, अन्तर, विशेषो वा स्वाचारोऽनिन्दिताचारः । प्रिवेत्यादि प्रियाणि परि सर्वतो गीतगन्धमाख्यानि यस्य स तथा । नृत्यन्नित्यादि चार ( बया भवति तथा) शन्द्रं यथा भवति तथा प्रहसतीति योज्यम् ॥ २० ॥

ताम्राक्षः प्रियतनुरकधारी गम्भीरो द्रुतगतिरल्पवाक सहिष्णुः।
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः ॥ २१ ॥

यक्षाविष्टमाह-ताम्राक्ष इत्यादि । प्रिवेत्यादि प्रियं शोभनं, तनु सूक्ष्मं रथं व वस्त्रं धर्तुं शीलं यस्य स तथा ॥ २१ ॥ प्रितानां स दिशति संस्तरेषु पिण्डान्शा न्तात्मा जलमपि चापसव्यवस्त्रः ।
मांसेप्सुस्तिलगुडपायसाभिकाम स्तद्भको भवति पितृग्रहाभिजुष्टः ॥ २२ ॥

पितृबुथमाह-प्रेतानामित्यादि । प्रेतानां मृतपितॄणां संबन्धमात्र विवक्षया न चतुर्थी । दिशति ददाति । संखरेषु कुशपत्रादिरचितास्तरणेषु । अपसव्यवस्त्रो वामो तरीयः । मांसेप्युरित्यादि । एतदनिधानप्रयोजनं यस्मिन् यस्येच्छा भवति तस्य तेनेव बलिर्दातव्यः एवमन्यत्रापि द्रष्टव्यम् । तद्भक्तः पितृभक्तः ॥ २२ ॥

यस्तूच्या प्रसरति सर्पवत्कदाचित्सु क्कण्यौ विलिहति जिह्वःया  तथैव ।
कोधालुर्गुडमधुदुग्ध्पायसेप्सु शार्त्व्यो  भवति भुजङ्गमेन जुष्टः ॥ २३ ॥

नागाविष्टमाह – यस्त्वित्यादि । प्रसरति सर्पवदिति उरसा गच्छति । सहण्यौ ओष्ठप्रान्तौ । सकणीशब्द ईकारान्तोऽप्यस्तीत्युन्नेयम् ॥ २३ ॥

'तात्राक्षो रक्तनेत्रः । गम्मीरोऽनाकुलितान्तःकरणः, द्रुतगतिरुत्वागति:; - ल्पभाषी, सहिष्णुः सदनशीलः । करसे किं ददामीत्येवं वदति ( मा० द० ) ॥ २१ ॥ पिण्डानन्नमयान्, शान्तात्मा शान्तस्वभावः, जलमपि चेति नः परं दभैस॑स्त॒रेषु पिण्डान् ददाति किंतु जलमपि चेत्यर्थ: । 'अपसव्यहस्तः' इति पाठे दक्षिणहस्तः । पायसः क्षीरसिद्धास्तण्डुलाः, अभिकामोऽभिलाषुकः, तद्भकः पितृनक्तः; तद्भकः तिलादिभोजन रति उहण:' ॥ २२ ॥ ‘सर्वैद्मद्दजुष्टमाह-य इत्यादि । उयाँ भूमौ सवदुरसा गच्छति, सुकाण्यावोऽमान्तौ जिड़या विलिति । क्रोषाः कोपनः, गुडादिप्रियः, मुजङ्गमग्रहेण जुये ब विविधविकाराः ष्टयः भृशमतिशयेन बज्जारहितः अतिनिष्ठुरो बार दैतः, विपुलवोऽन्नादिनाऽपि प्रभूतबल:' ॥ २४ ॥

ईमांसासृग्विविधसुराविकारलिप्सु निर्लजो भृशमतिनिष्ठुरोऽतिशूरः ।
क्रोधालुर्विपुलवलो निशाविहारी 'शौचद्विड् भवति स राक्षसैर्गृहीतः ॥ २४॥

राक्षसाविष्टमाह- मांसेत्यादि । निशाविहारी निशायामेव भ्रमणशीलः । राक्षस शब्देन ब्रह्मराक्षसादयोऽपि ग्राह्याः । तथा राक्षसानन्तरं विदेहोऽपि पठति, “देववि. प्रगुरुद्वेषी वेदवेदाङ्गनिन्दकः । आत्मपीडाकरो हासी ब्रह्मराक्षससेवितः" इति ॥ २४ ॥

उद्धस्तः कृशपरुषोऽचिरप्रलापी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः ।
बहाशी विजनवनान्तरोपसेवी व्याचेष्टन् भ्रमति रुदन् पिशाचजुष्टः ॥ २५ ॥

पिशाचाविष्टमाह-उद्धस्त इत्यादि । उद्धस्त ऊर्ध्वबाहुः; उद्धव इति पाठान्तरं न्याय्यं, विदेहेऽपि दिगम्बरपाठात्; उद्बस्त्रो नमः । परुषो रूक्षः । लोलः सर्वस्मिन्नन्ने पाने च सतृष्णः । लोलुरिति पाठान्तरे स एवार्थः । व्याचेष्टन्निति विरुद्धमाचेष्टन् ॥ २५॥

स्थूलाक्षो द्रुतमटनः स फेनलेही निद्रालुः पतति च कम्पते च यो हि ।
यश्चाद्विद्विरदनगादिविच्युतः स्यात् सोऽसाध्यो भवति तथा त्रयोदशाब्दे ॥ २६ ॥

त्रिविधं हि हिंसाक्रीडापूजार्थ ग्रहा गृह्णन्ति । यदुक्तम्, “अशुचिं भिन्नमर्यादं क्षतं वा यदि वाऽक्षतम् । हिंस्युहिंसाविहारार्थ सत्कारार्थमथापि च” (सु. उ. तं. अ. ६०) इति । तत्र हिंसार्थं गृहीतोऽसाध्यो भवति, तस्य श्लोकाद्वयेन क्षणमाह-स्थूलाक्ष इत्यादि । स्थूलाक्षो वितृतनेत्र इति जेज्जटः, द्रुतमदनो द्रुतगतिः, अत एव त्वरित

""कृशो निर्मासः, विरुद्धखापी विरुद्धमाषी, 'अचिरप्रलापी' इति पाठान्तरम् । दुर्गन्धः; 'अतिलोलः' इत्यत्र अतिचपल इत्यन्ये; 'अतिलोलु:' इति पाठान्तरे अशनलोलुप इत्यर्थः । महाशी प्रचुरभोक्ता विजनं निर्जनस्थानं, हिमाम्बु शीताम्बु, तयोः सेवी, रात्रेः सेवी रात्रिविचारीत्यर्थः । 'विजनवनान्तरोपसेवी' इति पाठान्तरम् । व्याचेष्टन् विविधं चेष्टन्; 'म्याचेष्टं' इति पाठान्तरे विरुद्धचेष्टं यथा भवति तथा भ्रमति' ॥ २५ ॥ त्रिविधं हि हिंसाक्रीडापूजार्थ ग्रहा गृह्णन्ति । यदुक्तं "अशुचि भिन्नमर्यादं क्षतं वा यदि तम् हिस्साविदाराव सत्कारार्थमथापि च "-इति । अस्यार्थः भिन्नमर्यादं कर्मणोऽन्यत्र कर्मणि प्रवृतं, अभक्ष्यागम्याहिंसादिप्रवृत्तत्वात् । क्षतं सवर्ण, मांसशोणितवियत्वात् । अक्षतमपि शौचादिरहितम् । अत्र विहारशब्देन रतिरभिधीयते । सरकार पूजा सत्र हिंसार्थ] गृहीतोऽसाध्यो भवति । तस्य लक्षणमाह-स्थूलाक्ष इत्यादि । किम् सोऽसाध्यः तेभ्यः पतितः स्यात् सोऽप्यसाध्यः । अद्रिः पर्वतः, दिदः दिपणाप्रासादादयो गुझन्ते । एतेभ्यः पतितः स्यादित्यर्थः'॥ १६ ॥ ''इति क. | प्रतच 'विजनहिमाम्बुरात्रिसेवत्री' इति पाठाभि प्रायेण ॥ गतिरिति नेजदेन पठितम् । यचेत्यादि । -पर्वतादिपतितः सन् यो गृह्यते सोऽप्य साच्यः, नगो वृक्षः | सबै एवोन्मादी त्रयोदशेऽब्दे देवतागृहीतोऽप्यसाप्यः । विदेहे अधिक्रमप्यसाध्यलक्षणं पठ्यते, "मेद्प्रवृत्तः क्षतजः साम्राज्ञः स्रुतनासिकः । रुक्षजिहः पूतिगम इतवागतिदुर्बलः" इत्यादि ॥ २६ ॥

देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि ।
गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ ॥ २७ ॥
पित्र्याः कृष्णक्षये हिंस्युः पञ्चम्यामपि चोरगाः ।
रक्षांसि रात्रौ पैशाचाश्चतुर्दश्यां विशन्ति हि ॥ २८ ॥

देवादीनां प्रहणकालमाह देवग्रहा इत्यादि । पौर्णमास्यां पूर्णिमायाम् । कृष्ण क्षयेऽमावास्यायाम् । प्रायोग्रहणादन्यत्रापि । तिय्यभिधानप्रयोजनं लक्षणार्थं तत्तिथी बलिदानार्थं च ॥ २७ ॥ २८ ॥

दिर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा ।
स्वर्माणि भास्करार्चिश्च यथा देहं च देहधृक् ।
विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणः ॥ २९ ॥

ननु, यदि ग्रहाविष्टानां पुंसामुन्मादः स्यात्, तदा विशन्तो महाः कुतो न लक्ष्यन्ते इत्यत आह-दर्पणादीनित्यादि । अस्मदादिदर्शनायोग्यत्वान्न दृश्यन्त इत्यर्थः । आदिशब्देन प्रकारवाचिना जलतैलादीनां ग्रहणम् । छाया प्रतिकृतिः, शीतोष्णमिति कर्तृपदं, प्राणिन इति कर्मपदम् । स्वमणिमिति सूर्यकान्तम् । देहधृगात्मा, मन इति जेज्जदः । अनेकदृष्टान्तप्रयोजनं जेजटलिखितं तचात्रानुपयुक्तलेन विस्तरभयाच न लिखितम् । देवशब्देन चात्र देवस्यानुचरा देवसधर्माणो गृह्यन्ते, देवानां मनुष्य शरीरेणाशुचिना संबन्धाभावात् । यदाह सुश्रुतः, "न ते मनुष्यैः सह संविशन्ति न ते मनुष्यान् कचिदाविशन्ति । ये खाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषया दपेता: (सु. उ. तं. अ. ६० ) -" इति ॥ २९ ॥
यामुन्मादनिदानं समाप्तम् ॥ २० ॥
 'विशन्ति अनुप्रवेशं कुर्वन्ति । असुरा असुरग्रहाः । संध्ययोरपीत्यपिशब्दः पादपूरणे; अन्येऽपिशब्दात् पौर्णमास्यामपि गृवन्तीति वर्णयन्ति । प्रायशोऽष्टम्यामिति प्रायःशब्दा रप्ययोरपि गन्धर्वा विशन्तीति लभ्यते । पित्र्याः पितृमहाः । पञ्चम्यामपीत्यपिशब्दात्कृ ऽपि । उरगा नागग्रहाः । तिथ्यभिधानप्रयोजनं तेषां तिथी बलिदानार्थ; तथा "मदा गृढन्ति ये येषु तेषां तेषु विशेषतः । दिनेषु बलिदोमादीन् प्रयुजीक -विनित्मक:"-इति' ॥ २७ ॥ २८ ॥ 'मनु भूतेः शरीरेऽनुप्रवेशः क्रियते न तु शरीरिणि, तत्कथं शरीरिण इत्यभिधाने नः विरुध्यते ? उच्यते-शरीरिशब्देनात्र शरीरमभिप्रेतं स्थानिनि स्थानोपचाराद, बथा भाः क्रोशन्तीति । यया छावाशीतोष्णादयो दर्पणप्राणिप्रभृतीन् विशन्तो न दृश्यन्ते ॥ २९ ॥ ३० ॥
प्रविश्याशु शरीरं हि पीडां कुर्वन्ति दुःसहाम् ॥ ३० ॥ ॐ (तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमश्च सत्यम् । गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् ३१ न ते मनुष्यैः सह संविशन्ति नवा मनुष्यान्कचिदाविशन्ति । ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः ॥ ३२ ॥ ५ तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपद्मसंख्याः । असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तथाऽऽविशन्ति ॥ )  उन्मादनिदानं समाप्तम् ॥ २० ॥

दाहनिदानं

 1

दाहनिदानम्

त्वचं प्राप्तः स पानोष्मा पित्तरक्ताभिमूच्छितः । दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् ॥ १ ॥

मदात्ययेऽपि दाहो भवत्यतः सप्तप्रकारं दाहमाह, तत्र मयजमाह-वच मित्यादि । पानोष्मा मद्यपानकुपितपित्तस्यौष्ण्यं; समानोष्मेति पाठान्तरमयुक्तं, सुश्रुते पानात्यये श्लोकस्यास्य पाठात् । पित्तजोऽप्ययं हेतुभेदात्पृथक् पठितः ॥ १ ॥

कृत्स्नदेहानुगं रक्तमुद्रिकं दहति ध्रुवम् । स उष्यते तृष्यते च ताम्राभस्ताम्रलोचनः ॥ २ ॥
लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते ।

रक्तजमाह — कृत्स्नेत्यादि । स उष्यते समीपस्थेनेव वह्निना तप्यते, संचू ष्यत इति पाठान्तरे आचूषणवद्वेदनामनुभवति । ताम्राभ इति गात्रे । लोहगन्धा जवदन इति लोहस्येव गन्धोऽङ्गे वदने च यस्य स तथा ॥ २ ॥

पित्तज्वरसमः पित्तात्स चाप्यस्य विधिः स्मृतः ॥ ३ ॥

पित्तजमाह - पित्तेत्यादि । पित्तज्वरसमः पित्तज्वरलिङ्गयुक्तः, पित्तज्वरे त्यामाशय दुष्ट्यादयोऽधिका इति भेदः । स चाप्यस्य विधिरिति पित्तज्वरचिकित्सा ॥३॥
'उपद्रवानाह - हिक्केत्यादि । एते उपद्रवाः पानहतान् पुरुषान् भजन्ते । असितं कृष्णं, अथवा नीलं चाषपक्षप्रतिमम् । रुघिरप्रभे अतीव रक्ते  ॥ २२ ॥

तृष्णानिरोधादव्धातौ क्षीणे तेजः समुद्धतम् । सबाह्याभ्यन्तरं देहं प्रदहेन्मन्दचेतसः ॥ ४ ॥
संशुष्कगलताल्वोष्ठो जिह्वां निष्कृप्य वेपते ।

तृष्णा निरोधजमाह-तृष्णेत्यादि । तेजः समुद्धतं पित्तोष्मा वृद्ध इत्यर्थः । निष्कृष्य निःसार्य ॥ ४॥

असृजः पूर्णकोष्ठस्य दाहोऽन्यः स्यात्सुदुस्तरः ॥ ५ ॥
अवगाढशस्त्र प्रहारजनितरक्तपूर्ण कोष्ठजमाह- असृज इत्यादि । न चोक्त रक्तजेनास्य पौनरुक्तयं, कृत्स्नदेहानुगमिति वचनात् कारणमेदाच | असृजः पूर्णको ठस्येति "पूरणगुणमुहितार्थ -" इत्यादिना ज्ञापकेन कर्तरि पष्ठी, रक्तेन पूरितकोष्ठ स्पेयर्थः । कोष्टशब्देन हृदयादयो गृह्यन्ते । यदाह सुश्रुतः, "स्थानांन्यामाग्नि पक्कानां मूत्रस्य रुधिरस्य च । हृदुण्डकः फुप्फुसथ कोष्ठ इत्यभिधीयते" ( सू० चि० स्था० अ० २ ) इति ॥ ५ ॥

धातुक्षयोक्तो यो दाहस्तेन मूर्च्छातृडर्दितः । क्षामस्वरः क्रियाहीनः स सीदेद्भृशपीडितः ॥ ६ ॥

धातुक्षयजमाहू — धाखित्यादि । धातवो रसादयः । क्रियाहीनो निवेष्टः; किंवा भृशपीडितो दाहेन क्रियाहीनश्चिकित्साहीनो यदि भवेत्तदा सीदेत्रियत इत्यर्थः ॥ ६ ॥

मिर्माभिघातजोऽप्यस्ति सोऽसाध्यः सप्तमो मतः । सर्व एव च वर्ज्याः स्युः शीतगात्रस्य देहिनः ॥ ७ ॥
इति श्रीमाधवकरविरचिते माधवनिदाने दाहनिदानं समाप्तम् ॥ १९ ॥
मर्माभिघातजमाह-मर्मेत्यादि । मर्माणि शिरोहृदयबस्त्यादीनि । जेजटस्तु सप्तत्वमन्यथा गणयति, 'त्वचं प्राप्त' इत्यादिना प्रथमः, 'कृत्नदेहानुगं रक्तं'
 'तृष्णाविधारणादग्धाती रसे क्षीणे सति, तेजः समुत्थितं पित्तोष्मा वृद्ध इत्यर्थ: । सवाद्याभ्यन्तरं देहं प्रदहेत् । मन्दचेतसो विसंज्ञस्य । निष्कृष्य निःसार्य कम्पते' (आ० द० ) ॥ ४ ॥ ५ ॥
'धातवो रसादय:, तेषां क्षयेण यो दाहो भवति तेन धातुक्षयजदाहेन, क्षामस्वरो दुर्बलस्वर:' ( आ० द० ) ॥ ६ ॥

 'क्षतजेनाश्रतश्चानं शोचतो वाऽप्यनेकथा । तेनानं दतेऽत्यर्थ तृष्णादाह प्रलापवान्' इति । अस्यार्थः- पूर्वमसृजः पूर्णकोष्ठस्येत्यादिना कोष्ठस्थेन रक्तेन दाहमन मिथायेदानी प्रकारान्तरेणाह- इतनेन रक्तेन, अक्षतो भोजनं कुर्वतः शोकं कुर्वतो वाऽपि नरस्यान्यो दादो रक्तेन भवतीति संबन्ध:, तेन दाहेनाभ्यन्तरं दह्यते, तृष्णामूर्च्छा प्रलापवान् 'नरो भवति' इति शेषः । ममांभिषातजस्तु सप्तमः । सर्वेषामपि दाहाना मवस्थायां वर्जनीयत्वमाह-सर्व इति । सर्व एव हि 'दाहा' इति शेषः । शेषं सुगमम् [आ]॥ ७ ॥

इत्यत्र रक्तस्थाने पित्तं पठिला एतदादिना 'स चाप्यस्य विधिः स्मृतः इत्यन्तेन पैत्तिको द्वितीयः, तृष्णानिरोधजस्तृतीयः, 'असृजः पूर्णकोष्टस्य' इति चतुर्थः, धातुक्ष यजः पशमः, षष्टस्य तु क्षतजस्य लक्षणं पठति, “क्षतजोऽनश्नतवानं शोचतथाप्यनेकधा । तेनान्तर्दयतेऽत्यर्थ तृष्णादाहप्रलापवान्"-इति, मर्माभिघातजस्तु सप्तम इति ॥ ७ ॥
मधुकोशव्याख्यायां दाहनिदानं समाप्तम् 

Tuesday, May 31, 2022

अथ पानात्ययपरमदपानाजीर्णपान विभ्रमनिदानं

1

ये विषस्य गुणाः प्रोक्तास्तेऽपि मद्ये प्रतिष्ठिताः।
तेन मिथ्योपयुक्तेन भवत्युग्रो मदात्ययः॥१॥

'मूर्च्छा मधेन च विषेण च' इति वचनाम्मूर्छानन्तरं मद्यविकारान् मदात्यया दीनाह। ननु, कथं मयं मोहबतीत्याह—ये विषस्येत्यादि । ते च विषगुणा मूर्च्छाध्याये निदर्शिताः । मिथ्योपयुक्तेनेति अयथाविधिपीतेन, विधिश्वायं तथैथा, कुसुमितलतोपगूढैः प्ररूडनिरन्तरनवाङ्कुरनिकररोमाञ्चैर्मंधुकरमधुरझारसीत्कारैर्मुक्त कण्ठकलकण्ठकूजितै दक्षिणसमीरणसमुल्लसितपल्लव कर प्रचारैस्तरुणतरुमिरुपक्रान्तलताभिः रतिशोभनेषु तुषारकरकिरणराजिपराजिताशेषतापदोषेषु प्रदेशेषु शृङ्गाररससमु चितालङ्कृतिकमनीयका मिनीसेवितं ललितललनोपनीयमानं सुरभिरुचिररूपरसो पदंश के नाम परिमितं परार्थ्यमधुपानं न सुखयति ? चरके तु विस्तरेणे तदुतम् ॥ १ ॥

किंतु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् । अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम् ॥ २ ॥
प्राणाः प्राणभृतामनं तदयुक्त्या हिनस्त्यसून् । विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् ॥ ३ ॥

ननु, विषस्य ये गुणास्ते चेन्मयेऽपि सन्ति, तर्हि विषवन्मद्यमनुपयोज्यं प्रसज्येत ? अत आह—किलित्यादि । यथैवान्नमिति देहधारकस्वभावं, तदेवायुक्तियुक्तम विधियुक्तं रोगाय; तस्मादहितमपि विशिष्टविधिनोपयुक्तं हितं, हितमप्यविधि नोपयुक्तमनर्थाय भवतीति अत्रैव दृष्टान्तमाह - प्राणा इत्यादि । तदयुक्त्येति अतिमात्रत्वादिना विसूच्यादिकं कृत्वा मारयतीत्यर्थः । युक्तियुक्तमिति यथा चरकर सायनप्रयोगे उक्तं, “द्वौ यत्रावत्र हेन्नस्तु तिलं दद्याद्विषय च (च. चि. स्था. अ. १ )" इति । अत्र तिलमिति तिलप्रमाणम् ॥ २ ॥ ३ ॥

* 'ये विषय गुणाः प्रोक्ताः, ते गुणा मवेऽपि कीर्तिताः तेन मधेन' (आ० द०) ॥ ↑ 'मयं स्वभावेन प्रकृत्याऽश्नवत् शेयं देहधारणस्वभावं, तदेवान्नं मयं वाऽयुक्तियुक्त मविधिप्रयुक्तं रोगाय भवति, युक्तियुक्तममृतषद्भवतीत्यर्थः । अन्नं प्राणभृतां शरीरिणां प्राणाः, शरीरधारणात्मकत्वात् । प्राणहरमपि तददिषं युक्तियुक्तं रसायनं भवति, शरीरं भारवतीत्यर्थ:' (आ० द० ) ॥ २


१ अस्या कपुस्तके 'शुद्धायः पिबेरप्रात: सोपदंशं पलद्वयम् । मध्याहे द्विगुणं हारेण पायवेत् । प्रदोषेऽष्टपढं तन्मात्रा मदरसायने ॥ वामे रामा रमण दक्षिणे पानपात्रं चामे भूत्वा मरिचढवणेश्छागलं भृष्टमांसम् । वीणानादैः पर नूतकृतेः काकलीगीतके: सोऽयं धन्यः पिबति मंदिरां भैरवो यस्य तुष्टः' इत्यधिकः

2

विधिना मात्रया काले हितैरन्नैर्यथावलम् ।
प्रदृष्टो यः पिबेन्मद्यं तस्य स्यादमृतोपमम् ॥ ४ ॥
स्निग्धैस्तदन्नमसिश्च भक्ष्यैश्च सह सेवितम् ।
भवेदायुःप्रकर्षाय बलायोपचयाय च ॥ ५ ॥
काम्यता मनसस्तुष्टिस्तेजो विक्रम एव च ।
विधिवत्सेव्यमाने तु मद्ये संनिहिता गुणाः ॥ ६ ॥


विधिनोपयुक्तस्य फलमाह - विधिनेत्यादि । काल इति नित्यगे चावस्थिके च तद्यथा-श्रीध्मे शीतमधुरं माध्वीकादि, शीते उष्णतीक्ष्णं गौडिकपैष्टिकादि, तथा वाते निग्धादि, एवं वयस्युदाहार्यम् । हितैरनैरिति वक्ष्यमाणस्निग्धादिमिर्मद्यविपरीतगुणैः । निग्धैरित्युपलक्षणं, तेनान्यैरपि मद्यविपरीतगुणैरिति बोद्धव्यम् । यदुक्तं सुश्रुतेन, - “मद्यमम्लं तथा तीक्ष्णं सूक्ष्मं विशदमेव च । रुक्षमाशुकरं चैव व्यवागि व विकाशि च-” (सु. उ. तं. अ. ४७ ) इति । अम्लरसवं चास्योद्भुतरसत्वेनोतं; यदुक्त भन्यत्र, "सर्वेषामम्लजातीनां मयं मूर्ध्नि व्यवस्थितम्” इति । मूर्ध्नि व्यवस्थित मुत्कृष्टम् । अन्येऽप्यत्र रसाः सन्ति । यदाह भोजः, “मैरेयं मदिरा सीधु चतुर्थ मधु चोच्यते । एकैकं षड्स तत्र रसतो मद्यमीरितम्” इति । अन्नभक्ष्यशब्द योरुपादानेन प्रायो लेह्यं द्रवान्तरपानं च मद्यपानोचितं न भवतीति दर्शयति । अन्नभक्ष्याभ्यां लब्धेऽपि मांसे, मांसग्रहणं विशेषेण हितत्वोपदर्शनार्थम् । वलं शक्तिः, उपचयः स्थौल्यम् । अपरमपि विधिसेवागुणमाह-काम्यतेत्यादि । काम्यता कमनीयमूर्तिता, मनसस्तुष्टिः सन्तोषः । काम्यता मनस इति कमनीयवस्तुनि


* 'विधिः पूर्वोक्तः, तत्रान्तरोक्तश्च, - “शुद्धकायः पिबेत्प्रातः सोपदंशं पलक्ष्यम् । मध्या द्विगुणं तच्च लिग्धाहारेण वै पिबेत् ॥ प्रदोषेऽष्टपलं तद्वन्मात्रा मथरसायने । आरोग्य धातुसाम्यं च वहिकान्तिबलप्रदम् ॥ अनेन विधिना सेव्यं मद्यं नित्यमत न्द्रितैः” इति; अन्ये, "बुज्यादयो गुणा यावदुरुसन्ति निरत्ययाः । मात्रेयं विहिता मद्यपाने रोगाव चापरा:" इति । काल इति तत्र कालो द्विविधो नित्यगः, आवसिकश्च; तत्र नित्यगे ऋतुसंबन्धिनि, आवस्थिके काले-वाते खिग्धादि, यथावलं स्वशक्त्या | एवं दृष्टो हर्षयुक्तो वो मद्यं पिबेत्तस्यामृतोपमं स्यात् । कैः सह पीतं बलोपचवाय भवति तानाइ सिधैरि त्यादि । पतैर्वस्तुभिः सेव्यमानं मथमायुः प्रकर्षाय भवति तथा बलवर्धकमिति खिम्पेरि युपलक्षणं, तेनान्यै मैद्यविपरीतगुणैरिति बोद्धव्यं तेन तीक्ष्णादिदशगुण विपरीतैर्मृद्रादिगुणैः सदमयं सेव्यमिति । अन्येऽप्यन्त्र रसाः सन्ति । यदुकं तत्रान्तरे- "मस्याम्ल समावस्य चत्वारोऽनुरसाः स्मृताः । मथुरथ कषायश्च कटुकस्तित एव च रधि । यदाइ भोज:–“मदिराया रसा व्यक्ता मधुरोपणतिक्तताः । लवणाग्लकषायाश्च मुक्ष्मतराः स्मृताः ॥ विपर्ययेणैतदेवं मैरेये कथिता रसाः माध्वीके सीधुसंडे च चालक रसी व्यक्ता हि शेपाश्चत्वारो रसा मोजेन कीर्तिताः” इति । भन्नेरिति गोधूमादिभिः'

3

मनोवृत्तिः, तुष्टिश्च मनस एवेति योज्यम् । तेज उत्साहः । विक्रमः परामिभवार्य बलवती शरीरचेष्टा ॥ ४-६ ॥

बुद्धिस्मृतिप्रीतिकरः सुखश्च पानान्ननिद्रारतिवर्धनश्च ।
संपाठगीतस्वरवर्धनश्च प्रोक्तोऽतिरस्यः प्रथमो मदो हि ॥ ७ ॥

उक्तविधिविपर्ययेण सेव्यमानं मयं मदात्ययाय संपद्यते, स च विविधो भवति - पूर्वी मध्यमोऽन्तिमश्चेति; तेषां क्रमेण लक्षणमाह-बुद्धीत्यादि । बुद्धिरनुभवः, स्मृतिरनुभूतार्थानुसन्धानम् | पानान्त्रनिद्रारतिवर्धनश्चेति पानादिषु रतिरनुरागस्तद्वर्धनः । संपाठः सम्यक् पाठः । गयदासस्तु 'संपाठ्य' – इति पठित्वा गीतनृत्यवाद्यानि मिलितानि संपाठ्यमुच्यते, गीतं तु केवलमेवेति व्याचष्टे | खरो ध्वनिः । प्रोक्तोऽति रम्य इति ( ननु मनोविकारकारित्वात्कथमस्यातिरम्यता ? उच्यते-) मनोविकार कारित्वेऽपि तदात्वेन दुःखापहलात्, अत एव सुश्रुतेन मानस विकारेषु हर्षः पठितः ॥ ७ ॥

अव्यक्तबुद्धिस्मृतिवाग्विचेष्टः सोन्मत्तलीलाकृतिरमशान्तः ।
आलस्यनिद्राभिहतो मुहुश्च मध्येन मत्तः पुरुषो मदेन ॥ ८ ॥

द्वितीयमदमाह- अव्यक्तेत्यादि । विचेष्टो विरुद्धचेष्टः । उन्मत्तस्य लीलाकृतिभ्यां सह वर्तत इति सोन्मत्तलीलाकृतिः, उन्मत्तप्राय इत्यर्थः । अप्रशान्तः प्रचण्डः ॥ ८ ॥

गच्छेदगम्यान गुरूंश्च मन्येत् खादेदभक्ष्याणि च नष्टसंज्ञः ।
ब्रूयाच गुह्यानि हृदि स्थितानि मदे तृतीये पुरुषोऽस्वतन्त्रः ॥ ९ ॥

तृतीयमदमाह - गच्छेदित्यादि । ननु चरके द्वितीयतृतीययोर्मध्ये मदान्तरं पठितं, यदाह, “मध्यमं मदमुत्क्रम्य मदमप्राप्य चोत्तमम् । न किंचिदशुभं कुर्न राजसतामसाः ॥ को मदं तादृशं गच्छेदुन्मादमिव चापरम् (च. चि. स्था. अ. २४ ) - इति; तत् कुतोऽत्र न पठितं ? उच्यते, द्वितीय मदान्ते तृतीयमदस्य • पूर्वावस्थैवातिनिन्दनीया, सुतरां तृतीयो मद इति प्रतिपादनार्थ तत्पठितं, न तु तयोः परमार्थतोऽन्तराळे पृथकादान्तरमस्ति, यथा, "कुम्भमीनर्क्षयोर्मध्ये यदा चरति चन्द्रमाः । नाहरेत्तृणकाष्ठानि न गच्छेद्दक्षिणां दिशम्” इति । अत्र हि कुम्भस्य शेषांशो मीनस्य प्रथमांश एतद्वयं मध्यशब्देनोच्यत इत्याहुर्जेजटादयः, हरिचन्द्र व्याख्यानं तु विस्वरत्वान लिखितम् अगम्यान् गुरुदारादीन् दुष्टयानादींव । नष्टसंज्ञ इति संज्ञा नामोल्लेखेन ज्ञानं, तन्नष्टं यस्य स तथा गुह्यानि गोप्यानि । अस्वतन्त्रो मदपरवशः ॥ ९ ॥

* 'श्रीतिः परेण मैत्री सुख इति शोकायसरणेन मनसः प्रसादादनुपछतेन्द्रियवृत्ति त्वात्। गीतं गानं, खरो ध्वनिः' (आ० द० ) ॥ ७ ॥ 'मुडुवांरवार, आलस्यनिद्राभ्यामभिहतः पीडितः स चैवंविधोऽत्यनुपइतेन्द्रिय वृतित्वात्' (आ० द०) ॥ ८ ॥ 'गुरून् ज्येष्ठान्, न मन्येतावगणये दिव्यर्थः । अमक्ष्याणि शास्त्रनिषिद्धानि, चका राहुष्टपानादीं। स चैवंविथोडतीयोपडतेन्द्रियत्वाद्भवति' (आ० द० ) ॥ ९ ॥

4

चतुर्थे तु मदे मूढो भग्नदार्विव निष्क्रियः ।
कार्याकार्य विभागशो मृताव्यपरो मृतः ॥ १० ॥
को मदं तादृशं गच्छेदुन्मादमिव चापरम् ।
बहुदोषमिवामूढः कान्तारं स्ववशः कृती ॥ ११ ॥

चतुर्थमदमाह- चतुर्थे वित्यादि । कार्याकार्यविभागज्ञः कार्यमकार्यमिति बुद्ध्या जानाति । 'कार्याकार्यविभागाज्ञः' इति पाठे कार्यकार्यविभागयोरज्ञ इत्यर्थः । मृता दप्यपरो मृत इति मृतमपेक्ष्यापरोऽयं मृत इव अत्यन्ताज्ञानसाधर्म्यात्। 'अवरः' इति पाठान्तरे मृतादप्यघम इत्यर्थः, तथाविधावस्थायाः स्वयं कृतत्वात् । क इत्यादि 1-कः कृती कुशलः, सुकृती वा, कृतकृत्यो वा; स्ववशोऽपराधीनः, तादृशमुक्तप्रकारेण निन्दितं मदं, गच्छेत् प्राप्नुयात्; न कचिदेवंविधं प्राप्नुयादि त्यर्थः । कमिवेत्याह—बहुदोषमिवागूढः कान्तारमिति बहुदोषं हिंस्रादियुक्तं, कान्तारं दूरशून्यमध्वानम् । यदुक्तं चरके, "गच्छेदध्वानमखन्तं बहुदोषमिवाऽध्वगः” (च. चि. स्था. अ. २४) इति, एवं विदेहेऽपि पठितमिति । अत्राखन्तमशोभ मानमनिष्टफलवेन । ननु, चरकविदेहवाग्भटादिभिवतुर्थो मदो न पठितस्तत्कथं सुश्रुतेन पठितः ? उच्यते, चरके या द्वितीय तृतीययोरन्तरालावस्था पठिता, सेव सुश्रुतेन तृतीयो मद इति कृत्वा पठितः, यस्तु चरके तृतीयः स च सुश्रुते चतुर्थः पठित इत्यविरोधः । वस्तुगत्या तु त्रय एव मदा इत्युपपादितम् । ननु, किंकारण मेतत्रैविध्यमिति चेत् ? उच्यते, मद्यं हि वह्नितुल्यं, यथा त्यग्निः सुवर्णानामुत्तम मध्यमाधमानामभिव्यञ्जकस्तथा मद्यमपि प्राणिनां सत्त्वरजस्तमोभूयिष्ठानां कमे णाभिव्यञ्जकमिति । तथाहि चरकः, – “प्रधानाधममध्यानां रुक्माणां व्यक्ति दर्शकः । यथाऽग्निरेवं सत्त्वाद्यैर्मद्यं प्रकृतिदर्शकम्" इति (च. चि. स्था. अ. २४) । तस्मात् प्रथमद्वितीयतृतीयमदाः सत्त्वरजस्तमोभूयिष्ठानां क्रमेण भवन्तीत्यर्थः ॥ १० ॥ ११ ॥

निर्मक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम् ।
आपादयेत्कष्टतमान्विकारानापादयेच्चापि शरीरभेदम् ॥ १२ ॥

अय मर्थः स्निग्धैस्तदन्नैरित्यादिना यदुक्तं तद्विपर्ययेणैव लब्धः, तत्कथं पुनरुच्यते ? नैवं, पूर्व मद्यपानगुणाभिधानार्थमुक्तं, इदं तु कृच्छ्रतमव्याधिकर्तृत्वाभिधानार्थंमिति भेदः। अविधिमद्यपानस्य विकारान्तरहेतुलमाह-निर्भक्तमित्यादि ।
*'चतुर्थे मदे पुरुषो मूढोऽवः, भन्नदार्विद निष्कियो भवति भगवृक्ष इव क्रियारहितः, को मूढो गच्छेदपि तु नः कोऽपि । ननु चरकविदेहवाग्भटादिभिश्चतुओं मदो न पठितः, तत्कथं न विरोध: १ उच्यते; चरके या द्वितीयतृतीययोरन्तराठावा पठिता, सैव सुश्रुतेन तृतीयो मद इति कृत्वा पठितः । केयमन्तरालावस्था ! यो ज्योतिःशास्त्रे-“कुम्भमी नक्षयोर्मध्ये दक्षिणां दिशम्-" इति । अत्र कुम्भस्य शेषांशो मीनस्य प्रथमांश मतद्वयं मध्यशन्देवी यते इति सैवान्तराळावया' (आ० द० ) ॥ १० ॥ ११ ॥ सत्परः शब्दः स शब्दार्थ इत्यभिप्रायः । फष्टतमान्विकारानिति वक्ष्यमाणपानाल. यादीन् । भेदं विनाशं शरीरस्य ॥ १२ ॥

5

क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन ।
व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि ॥ १३ ॥
अत्यम्बुभक्षावततोदरेण साजीर्णभुक्तेन तथाऽवलेन ।
उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान्विकारान् ॥१४॥

अन्नसहितस्यापि मद्यस्य क्रुद्धत्वादिकारणसहितस्य विकारकारित्वप्रदर्शनार्थ माह-कुद्धेनेत्यादि । परिक्षतेन क्षीणेन । अवततं व्याप्तम् । विविधान् विका रानू पानात्ययादीनिति ॥ १३ ॥ १४ ॥

पानात्ययं परमदं पानाजीर्णमथापि वा ।
पानविभ्रममुग्रं च तेषां वक्ष्यामि लक्षणम् ॥ १५ ॥

तानेव विवृणोति–पानात्ययमित्यादि । ननु, अयमर्थः ‘आपादयेत्कष्ठतमा विकासन्'– इत्यनेनैवोक्तत्वात् कथं पुनरुक्तः ? उच्यते, पूर्वेण कष्टतमविकारका रिल्लमुक्तं, अनेन तु नानाविधविकारकारित्यमिति भेदः ॥ १५ ॥

हिकाश्वासशिरः कम्पपार्श्वशूल प्रजाग रैः ।
विद्याद्वहुप्रलापस्य वातप्रायं मदात्ययम् ॥ १६ ॥
तृष्णादाहज्वरस्वेदमोहातीसारविभ्रमैः ।
विद्याद्धरितवर्णस्य पित्तप्राय मदात्ययम् ॥ १७ ॥
छर्घरोचकहल्ला सतन्द्रास्तै मित्यगौरवैः ।
विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम् ।
ज्ञेयस्त्रिदोषजश्चापि सवैलिङ्गैर्मदात्ययः ॥ १८ ॥

तेषामुद्दिष्टानां लक्षणमाह - हिक्केत्यादि । प्रजागरो निद्राविच्छेदः । वात प्रायमित्यनेन सर्वे मदात्ययात्रिदोषजा उद्भूतत्वेन व्यपदेश इति चरके दर्शितम् ।

* ‘व्यायाममाराध्वभिः परिक्षतेन क्षीणेन, वेगावरोधाभिहतेन मूत्रादीनां बेगाभिघात पीडितेन । अत्यम्बुभक्षैरवततोदरेण व्याप्तोदरेण । साजीर्णभुक्तेन साजीर्ण मुक्त यस्य स तथा तेन । अबलेन बलरहितेन, बलमोजः । उष्णाभितप्तेन धर्मसंतप्तेन ईंदृश्शेन पुरुषेण सेव्यमानं विविधान् नानाविधान्, विकारान् पानात्ययादीन् करोति' ( भा० ५० ) ॥ १३ ॥ १४ ॥
पानात्ययमित्येको विकारः, पानाजीर्णमित्यन्यः, पानविभ्रममित्य परः । तेषां क्रमेण लक्षणं वक्ष्यामि' (आ० द०) ॥ १५ ॥
↑ 'तत्र वातिकमदात्ययमाइ-हित्यादि । सर्वे मदात्ययासिदोषजाः, औद्धत्येन व्य देशः । पैत्तिकमाइ–तृष्णेत्यादि । विश्रमो वस्तुविपरीतज्ञानम् । हरितवर्णस्य पुरुषस्येति हरितवर्णता पिचलक्षणं, शेषं सुगमम् । चैम्मिकमाइ-छर्दीत्यादि । स्तैमिल्यं निश्चळता । शीतपरीतस्य शीतयुक्तस्य । त्रिदोषजमाइ-शेय इत्यादि सर्वलिङ्गैः सर्वदोषलक्षणैः” ( मा० द०) ॥ १६-१८ ॥
यदाह, "ये विषस्य गुणाः प्रोक्ताः सर्वदोषप्रकोपणाः" -इत्यारभ्य, यावत् “सर्व मदात्ययं विद्यात्रिदोष" (च. चि. स्था. अ. २४) इति । एवं चरकसंवादात्सु श्रुतेऽपि बोध्यम् । विभ्रमो भ्रमः । हरितवर्णस्येत्यनेन हरितवर्णताऽपि लक्षणम् ॥ १६-१८॥

6

श्लेष्मोच्छ्रयोऽङ्गगुरुता विरसास्यता च विण्मूत्रसक्तिरथ तन्द्रिररोचकश्च ।
लिङ्गं परस्य च मदस्य वदन्ति तज्ज्ञा स्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः ॥ १९ ॥

परमदमाह- श्लेष्मोच्छ्रय इत्यादि । वेष्मोच्छ्रयथात्र नासासावादिना ज्ञेयः । सक्तिः सङ्गः, अप्रवृत्तिरिति यावत्तन्द्रिस्तन्द्रा । परस्य मदस्येति परमदस्य; छन्दोनुरोधादसमास निर्देशः ॥ १९ ॥


आध्मानमुग्रमथ चोद्भिरणं विदाहः पानेऽजरां समुपगच्छति लक्षणानि ।
पानाजीर्णमाह-आध्मानमित्यादि । उद्भिरणं बान्तिः, उद्गारो वा पाने मद्ये, अजीर्णमुपगच्छति अपक्कलमुपगच्छतीति पानाजीर्णविकार इत्यर्थः ॥

हृद्द्वात्रतोदकफसंस्रवकण्ठधूमा
मूर्च्छावमिज्वरशिरोरुजनप्रदाहाः॥ २० ॥
द्वेषः सुरान्नविकृतेष्वपि तेषु तेषु
तं पानविभ्रममुशन्त्य खिलेन धीराः ।

पानविभ्रममाह - हृदित्यादि । कण्ठधूमः कण्ठाडूमनिर्गमवत्पीडा शिरोरुजनं शिरःशूलम् । सुरान्नविकृतेष्विति सुराविकृतेष्वन्नविकृतेषु च, भावे तः । तेषु तेध्विति नानाविकारेषु सुरामैरेयपिष्टकलड्डुकादिषु । उशन्ति इच्छन्ति । एते च परमदादयस्त्रयो न चरके पठिताः सन्निपातजेऽन्तर्भूतत्वात्; सुश्रुतेन तूत त्रिदोषजमदात्ययात्पृथगेते पठिताः, विकृत्या पूर्वलक्षणवैलक्षण्याभिधानार्थमि त्याहुः ॥ २० ॥


हीनोत्तरौष्ठम तिशीतममन्ददाहं तैलप्रभास्यमपि पानहतं त्यजेत्तु ॥ २१ ॥
जिह्वौष्ठदन्तमसितं त्वथवाऽपि नीलं पीते च यस्य नयने रुधिरप्रमे वा ।

असायलक्षणमाहहीनेत्याहि । हीनोत्तरीष्ठं प्रलम्बमानोपरितनौष्ठम् अविशीत बहिः, अमन्ददाहमभ्यन्तरे, तैलप्रभासं तेलाचमुखमिव ॥ २१ ॥
अङ्ग्गुरुता शरीरगौखम् । विरसास्यता मुखस्य रस्यम् । विमूत्रसकियो प्रवृत्तिः शिरसि रुजा पीडा, संचिषु भेदः स्फुटनमिय' (आ० ६० ) ॥ १९ ॥ 1 'तिममन्ददादमिति विकल्पेन प्रत्येवम्यं, एकदैकत्र विरुद्ध मैद्यासंभवाद; ति, कदाचितिव्रदाह्म्  (०६०) ॥ ११ ॥

7

हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते ॥ २२ ॥
पानात्ययपरमदपानाजीर्णपान विभ्रमनिदानं समाप्तम् ॥

उपद्रवानाह– हिकेल्याहि । एतैः कृच्छ्रसाध्यं भवति नत्वसाध्यं; असाध्य लक्षणेभ्यः पृथक्पाठादिति जेज्जटः । ध्वंसक विक्षेपकाख्यौ मद्यविकारौ चरके पृथक् पठितौ; तद्यथा “विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते । ध्वंसो विक्षेपकश्चैव रोगस्तस्योपजायते ॥ श्लेष्मप्रसेकः कण्ठास्यशोषः शब्दासहिष्णुता । तन्द्रानिद्राभियो गश्च ज्ञेयं ध्वंसकलक्षणम् || हृत्कण्ठरोधः संमोहश्छर्दिरङ्गरुजा ज्वरः । तृष्णा कासः शिरःशूलमेतद्विक्षेपलक्षणम् (च. चि. स्था. अ. २४ ) ” – इति; तौ च सुश्रुतेन “विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते । तस्य पानात्ययोद्दिष्टा विकाराः संभवन्ति हि” (सु. उ. तं. अ. ४७ ) इत्यनेन संग्रहीतौ बोद्धव्यौ । न वा चिकित्सा भेद स्तयोरुक्तः, यतश्चरक एवोक्तवान्– “तयोः कर्म चिकित्सा च वातिके यन्मदात्यये" ( च. चि. स्था. अ. २४) इति ॥ २२ ॥
पानात्ययपरमदपाना जीर्णपान विभ्रमनिदानं समाप्तम् ॥

अथोन्मादनिदानम्

 1 अथोन्मादनिदानम्  मदयन्त्युद्गता दोषा यस्मादुन्मार्गमार्गताः । मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः ॥ १ ॥ मदात्यये 'उन्मादमिव चापरम्...