1
ये विषस्य गुणाः प्रोक्तास्तेऽपि मद्ये प्रतिष्ठिताः।
तेन मिथ्योपयुक्तेन भवत्युग्रो मदात्ययः॥१॥
'मूर्च्छा मधेन च विषेण च' इति वचनाम्मूर्छानन्तरं मद्यविकारान् मदात्यया दीनाह। ननु, कथं मयं मोहबतीत्याह—ये विषस्येत्यादि । ते च विषगुणा मूर्च्छाध्याये निदर्शिताः । मिथ्योपयुक्तेनेति अयथाविधिपीतेन, विधिश्वायं तथैथा, कुसुमितलतोपगूढैः प्ररूडनिरन्तरनवाङ्कुरनिकररोमाञ्चैर्मंधुकरमधुरझारसीत्कारैर्मुक्त कण्ठकलकण्ठकूजितै दक्षिणसमीरणसमुल्लसितपल्लव कर प्रचारैस्तरुणतरुमिरुपक्रान्तलताभिः रतिशोभनेषु तुषारकरकिरणराजिपराजिताशेषतापदोषेषु प्रदेशेषु शृङ्गाररससमु चितालङ्कृतिकमनीयका मिनीसेवितं ललितललनोपनीयमानं सुरभिरुचिररूपरसो पदंश के नाम परिमितं परार्थ्यमधुपानं न सुखयति ? चरके तु विस्तरेणे तदुतम् ॥ १ ॥
किंतु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् । अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम् ॥ २ ॥
प्राणाः प्राणभृतामनं तदयुक्त्या हिनस्त्यसून् । विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् ॥ ३ ॥
ननु, विषस्य ये गुणास्ते चेन्मयेऽपि सन्ति, तर्हि विषवन्मद्यमनुपयोज्यं प्रसज्येत ? अत आह—किलित्यादि । यथैवान्नमिति देहधारकस्वभावं, तदेवायुक्तियुक्तम विधियुक्तं रोगाय; तस्मादहितमपि विशिष्टविधिनोपयुक्तं हितं, हितमप्यविधि नोपयुक्तमनर्थाय भवतीति अत्रैव दृष्टान्तमाह - प्राणा इत्यादि । तदयुक्त्येति अतिमात्रत्वादिना विसूच्यादिकं कृत्वा मारयतीत्यर्थः । युक्तियुक्तमिति यथा चरकर सायनप्रयोगे उक्तं, “द्वौ यत्रावत्र हेन्नस्तु तिलं दद्याद्विषय च (च. चि. स्था. अ. १ )" इति । अत्र तिलमिति तिलप्रमाणम् ॥ २ ॥ ३ ॥
* 'ये विषय गुणाः प्रोक्ताः, ते गुणा मवेऽपि कीर्तिताः तेन मधेन' (आ० द०) ॥ ↑ 'मयं स्वभावेन प्रकृत्याऽश्नवत् शेयं देहधारणस्वभावं, तदेवान्नं मयं वाऽयुक्तियुक्त मविधिप्रयुक्तं रोगाय भवति, युक्तियुक्तममृतषद्भवतीत्यर्थः । अन्नं प्राणभृतां शरीरिणां प्राणाः, शरीरधारणात्मकत्वात् । प्राणहरमपि तददिषं युक्तियुक्तं रसायनं भवति, शरीरं भारवतीत्यर्थ:' (आ० द० ) ॥ २
१ अस्या कपुस्तके 'शुद्धायः पिबेरप्रात: सोपदंशं पलद्वयम् । मध्याहे द्विगुणं हारेण पायवेत् । प्रदोषेऽष्टपढं तन्मात्रा मदरसायने ॥ वामे रामा रमण दक्षिणे पानपात्रं चामे भूत्वा मरिचढवणेश्छागलं भृष्टमांसम् । वीणानादैः पर नूतकृतेः काकलीगीतके: सोऽयं धन्यः पिबति मंदिरां भैरवो यस्य तुष्टः' इत्यधिकः
2
विधिनोपयुक्तस्य फलमाह - विधिनेत्यादि । काल इति नित्यगे चावस्थिके च तद्यथा-श्रीध्मे शीतमधुरं माध्वीकादि, शीते उष्णतीक्ष्णं गौडिकपैष्टिकादि, तथा वाते निग्धादि, एवं वयस्युदाहार्यम् । हितैरनैरिति वक्ष्यमाणस्निग्धादिमिर्मद्यविपरीतगुणैः । निग्धैरित्युपलक्षणं, तेनान्यैरपि मद्यविपरीतगुणैरिति बोद्धव्यम् । यदुक्तं सुश्रुतेन, - “मद्यमम्लं तथा तीक्ष्णं सूक्ष्मं विशदमेव च । रुक्षमाशुकरं चैव व्यवागि व विकाशि च-” (सु. उ. तं. अ. ४७ ) इति । अम्लरसवं चास्योद्भुतरसत्वेनोतं; यदुक्त भन्यत्र, "सर्वेषामम्लजातीनां मयं मूर्ध्नि व्यवस्थितम्” इति । मूर्ध्नि व्यवस्थित मुत्कृष्टम् । अन्येऽप्यत्र रसाः सन्ति । यदाह भोजः, “मैरेयं मदिरा सीधु चतुर्थ मधु चोच्यते । एकैकं षड्स तत्र रसतो मद्यमीरितम्” इति । अन्नभक्ष्यशब्द योरुपादानेन प्रायो लेह्यं द्रवान्तरपानं च मद्यपानोचितं न भवतीति दर्शयति । अन्नभक्ष्याभ्यां लब्धेऽपि मांसे, मांसग्रहणं विशेषेण हितत्वोपदर्शनार्थम् । वलं शक्तिः, उपचयः स्थौल्यम् । अपरमपि विधिसेवागुणमाह-काम्यतेत्यादि । काम्यता कमनीयमूर्तिता, मनसस्तुष्टिः सन्तोषः । काम्यता मनस इति कमनीयवस्तुनि
* 'विधिः पूर्वोक्तः, तत्रान्तरोक्तश्च, - “शुद्धकायः पिबेत्प्रातः सोपदंशं पलक्ष्यम् । मध्या द्विगुणं तच्च लिग्धाहारेण वै पिबेत् ॥ प्रदोषेऽष्टपलं तद्वन्मात्रा मथरसायने । आरोग्य धातुसाम्यं च वहिकान्तिबलप्रदम् ॥ अनेन विधिना सेव्यं मद्यं नित्यमत न्द्रितैः” इति; अन्ये, "बुज्यादयो गुणा यावदुरुसन्ति निरत्ययाः । मात्रेयं विहिता मद्यपाने रोगाव चापरा:" इति । काल इति तत्र कालो द्विविधो नित्यगः, आवसिकश्च; तत्र नित्यगे ऋतुसंबन्धिनि, आवस्थिके काले-वाते खिग्धादि, यथावलं स्वशक्त्या | एवं दृष्टो हर्षयुक्तो वो मद्यं पिबेत्तस्यामृतोपमं स्यात् । कैः सह पीतं बलोपचवाय भवति तानाइ सिधैरि त्यादि । पतैर्वस्तुभिः सेव्यमानं मथमायुः प्रकर्षाय भवति तथा बलवर्धकमिति खिम्पेरि युपलक्षणं, तेनान्यै मैद्यविपरीतगुणैरिति बोद्धव्यं तेन तीक्ष्णादिदशगुण विपरीतैर्मृद्रादिगुणैः सदमयं सेव्यमिति । अन्येऽप्यन्त्र रसाः सन्ति । यदुकं तत्रान्तरे- "मस्याम्ल समावस्य चत्वारोऽनुरसाः स्मृताः । मथुरथ कषायश्च कटुकस्तित एव च रधि । यदाइ भोज:–“मदिराया रसा व्यक्ता मधुरोपणतिक्तताः । लवणाग्लकषायाश्च मुक्ष्मतराः स्मृताः ॥ विपर्ययेणैतदेवं मैरेये कथिता रसाः माध्वीके सीधुसंडे च चालक रसी व्यक्ता हि शेपाश्चत्वारो रसा मोजेन कीर्तिताः” इति । भन्नेरिति गोधूमादिभिः'
3
मनोवृत्तिः, तुष्टिश्च मनस एवेति योज्यम् । तेज उत्साहः । विक्रमः परामिभवार्य बलवती शरीरचेष्टा ॥ ४-६ ॥
उक्तविधिविपर्ययेण सेव्यमानं मयं मदात्ययाय संपद्यते, स च विविधो भवति - पूर्वी मध्यमोऽन्तिमश्चेति; तेषां क्रमेण लक्षणमाह-बुद्धीत्यादि । बुद्धिरनुभवः, स्मृतिरनुभूतार्थानुसन्धानम् | पानान्त्रनिद्रारतिवर्धनश्चेति पानादिषु रतिरनुरागस्तद्वर्धनः । संपाठः सम्यक् पाठः । गयदासस्तु 'संपाठ्य' – इति पठित्वा गीतनृत्यवाद्यानि मिलितानि संपाठ्यमुच्यते, गीतं तु केवलमेवेति व्याचष्टे | खरो ध्वनिः । प्रोक्तोऽति रम्य इति ( ननु मनोविकारकारित्वात्कथमस्यातिरम्यता ? उच्यते-) मनोविकार कारित्वेऽपि तदात्वेन दुःखापहलात्, अत एव सुश्रुतेन मानस विकारेषु हर्षः पठितः ॥ ७ ॥
द्वितीयमदमाह- अव्यक्तेत्यादि । विचेष्टो विरुद्धचेष्टः । उन्मत्तस्य लीलाकृतिभ्यां सह वर्तत इति सोन्मत्तलीलाकृतिः, उन्मत्तप्राय इत्यर्थः । अप्रशान्तः प्रचण्डः ॥ ८ ॥
तृतीयमदमाह - गच्छेदित्यादि । ननु चरके द्वितीयतृतीययोर्मध्ये मदान्तरं पठितं, यदाह, “मध्यमं मदमुत्क्रम्य मदमप्राप्य चोत्तमम् । न किंचिदशुभं कुर्न राजसतामसाः ॥ को मदं तादृशं गच्छेदुन्मादमिव चापरम् (च. चि. स्था. अ. २४ ) - इति; तत् कुतोऽत्र न पठितं ? उच्यते, द्वितीय मदान्ते तृतीयमदस्य • पूर्वावस्थैवातिनिन्दनीया, सुतरां तृतीयो मद इति प्रतिपादनार्थ तत्पठितं, न तु तयोः परमार्थतोऽन्तराळे पृथकादान्तरमस्ति, यथा, "कुम्भमीनर्क्षयोर्मध्ये यदा चरति चन्द्रमाः । नाहरेत्तृणकाष्ठानि न गच्छेद्दक्षिणां दिशम्” इति । अत्र हि कुम्भस्य शेषांशो मीनस्य प्रथमांश एतद्वयं मध्यशब्देनोच्यत इत्याहुर्जेजटादयः, हरिचन्द्र व्याख्यानं तु विस्वरत्वान लिखितम् अगम्यान् गुरुदारादीन् दुष्टयानादींव । नष्टसंज्ञ इति संज्ञा नामोल्लेखेन ज्ञानं, तन्नष्टं यस्य स तथा गुह्यानि गोप्यानि । अस्वतन्त्रो मदपरवशः ॥ ९ ॥
* 'श्रीतिः परेण मैत्री सुख इति शोकायसरणेन मनसः प्रसादादनुपछतेन्द्रियवृत्ति त्वात्। गीतं गानं, खरो ध्वनिः' (आ० द० ) ॥ ७ ॥ 'मुडुवांरवार, आलस्यनिद्राभ्यामभिहतः पीडितः स चैवंविधोऽत्यनुपइतेन्द्रिय वृतित्वात्' (आ० द०) ॥ ८ ॥ 'गुरून् ज्येष्ठान्, न मन्येतावगणये दिव्यर्थः । अमक्ष्याणि शास्त्रनिषिद्धानि, चका राहुष्टपानादीं। स चैवंविथोडतीयोपडतेन्द्रियत्वाद्भवति' (आ० द० ) ॥ ९ ॥
4
चतुर्थमदमाह- चतुर्थे वित्यादि । कार्याकार्यविभागज्ञः कार्यमकार्यमिति बुद्ध्या जानाति । 'कार्याकार्यविभागाज्ञः' इति पाठे कार्यकार्यविभागयोरज्ञ इत्यर्थः । मृता दप्यपरो मृत इति मृतमपेक्ष्यापरोऽयं मृत इव अत्यन्ताज्ञानसाधर्म्यात्। 'अवरः' इति पाठान्तरे मृतादप्यघम इत्यर्थः, तथाविधावस्थायाः स्वयं कृतत्वात् । क इत्यादि 1-कः कृती कुशलः, सुकृती वा, कृतकृत्यो वा; स्ववशोऽपराधीनः, तादृशमुक्तप्रकारेण निन्दितं मदं, गच्छेत् प्राप्नुयात्; न कचिदेवंविधं प्राप्नुयादि त्यर्थः । कमिवेत्याह—बहुदोषमिवागूढः कान्तारमिति बहुदोषं हिंस्रादियुक्तं, कान्तारं दूरशून्यमध्वानम् । यदुक्तं चरके, "गच्छेदध्वानमखन्तं बहुदोषमिवाऽध्वगः” (च. चि. स्था. अ. २४) इति, एवं विदेहेऽपि पठितमिति । अत्राखन्तमशोभ मानमनिष्टफलवेन । ननु, चरकविदेहवाग्भटादिभिवतुर्थो मदो न पठितस्तत्कथं सुश्रुतेन पठितः ? उच्यते, चरके या द्वितीय तृतीययोरन्तरालावस्था पठिता, सेव सुश्रुतेन तृतीयो मद इति कृत्वा पठितः, यस्तु चरके तृतीयः स च सुश्रुते चतुर्थः पठित इत्यविरोधः । वस्तुगत्या तु त्रय एव मदा इत्युपपादितम् । ननु, किंकारण मेतत्रैविध्यमिति चेत् ? उच्यते, मद्यं हि वह्नितुल्यं, यथा त्यग्निः सुवर्णानामुत्तम मध्यमाधमानामभिव्यञ्जकस्तथा मद्यमपि प्राणिनां सत्त्वरजस्तमोभूयिष्ठानां कमे णाभिव्यञ्जकमिति । तथाहि चरकः, – “प्रधानाधममध्यानां रुक्माणां व्यक्ति दर्शकः । यथाऽग्निरेवं सत्त्वाद्यैर्मद्यं प्रकृतिदर्शकम्" इति (च. चि. स्था. अ. २४) । तस्मात् प्रथमद्वितीयतृतीयमदाः सत्त्वरजस्तमोभूयिष्ठानां क्रमेण भवन्तीत्यर्थः ॥ १० ॥ ११ ॥
अय मर्थः स्निग्धैस्तदन्नैरित्यादिना यदुक्तं तद्विपर्ययेणैव लब्धः, तत्कथं पुनरुच्यते ? नैवं, पूर्व मद्यपानगुणाभिधानार्थमुक्तं, इदं तु कृच्छ्रतमव्याधिकर्तृत्वाभिधानार्थंमिति भेदः। अविधिमद्यपानस्य विकारान्तरहेतुलमाह-निर्भक्तमित्यादि ।
*'चतुर्थे मदे पुरुषो मूढोऽवः, भन्नदार्विद निष्कियो भवति भगवृक्ष इव क्रियारहितः, को मूढो गच्छेदपि तु नः कोऽपि । ननु चरकविदेहवाग्भटादिभिश्चतुओं मदो न पठितः, तत्कथं न विरोध: १ उच्यते; चरके या द्वितीयतृतीययोरन्तराठावा पठिता, सैव सुश्रुतेन तृतीयो मद इति कृत्वा पठितः । केयमन्तरालावस्था ! यो ज्योतिःशास्त्रे-“कुम्भमी नक्षयोर्मध्ये दक्षिणां दिशम्-" इति । अत्र कुम्भस्य शेषांशो मीनस्य प्रथमांश मतद्वयं मध्यशन्देवी यते इति सैवान्तराळावया' (आ० द० ) ॥ १० ॥ ११ ॥ सत्परः शब्दः स शब्दार्थ इत्यभिप्रायः । फष्टतमान्विकारानिति वक्ष्यमाणपानाल. यादीन् । भेदं विनाशं शरीरस्य ॥ १२ ॥
5
क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन ।
व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि ॥ १३ ॥
अत्यम्बुभक्षावततोदरेण साजीर्णभुक्तेन तथाऽवलेन ।
उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान्विकारान् ॥१४॥
अन्नसहितस्यापि मद्यस्य क्रुद्धत्वादिकारणसहितस्य विकारकारित्वप्रदर्शनार्थ माह-कुद्धेनेत्यादि । परिक्षतेन क्षीणेन । अवततं व्याप्तम् । विविधान् विका रानू पानात्ययादीनिति ॥ १३ ॥ १४ ॥
तानेव विवृणोति–पानात्ययमित्यादि । ननु, अयमर्थः ‘आपादयेत्कष्ठतमा विकासन्'– इत्यनेनैवोक्तत्वात् कथं पुनरुक्तः ? उच्यते, पूर्वेण कष्टतमविकारका रिल्लमुक्तं, अनेन तु नानाविधविकारकारित्यमिति भेदः ॥ १५ ॥
हिकाश्वासशिरः कम्पपार्श्वशूल प्रजाग रैः ।
विद्याद्वहुप्रलापस्य वातप्रायं मदात्ययम् ॥ १६ ॥
तृष्णादाहज्वरस्वेदमोहातीसारविभ्रमैः ।
विद्याद्धरितवर्णस्य पित्तप्राय मदात्ययम् ॥ १७ ॥
छर्घरोचकहल्ला सतन्द्रास्तै मित्यगौरवैः ।
विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम् ।
ज्ञेयस्त्रिदोषजश्चापि सवैलिङ्गैर्मदात्ययः ॥ १८ ॥
तेषामुद्दिष्टानां लक्षणमाह - हिक्केत्यादि । प्रजागरो निद्राविच्छेदः । वात प्रायमित्यनेन सर्वे मदात्ययात्रिदोषजा उद्भूतत्वेन व्यपदेश इति चरके दर्शितम् ।
* ‘व्यायाममाराध्वभिः परिक्षतेन क्षीणेन, वेगावरोधाभिहतेन मूत्रादीनां बेगाभिघात पीडितेन । अत्यम्बुभक्षैरवततोदरेण व्याप्तोदरेण । साजीर्णभुक्तेन साजीर्ण मुक्त यस्य स तथा तेन । अबलेन बलरहितेन, बलमोजः । उष्णाभितप्तेन धर्मसंतप्तेन ईंदृश्शेन पुरुषेण सेव्यमानं विविधान् नानाविधान्, विकारान् पानात्ययादीन् करोति' ( भा० ५० ) ॥ १३ ॥ १४ ॥
पानात्ययमित्येको विकारः, पानाजीर्णमित्यन्यः, पानविभ्रममित्य परः । तेषां क्रमेण लक्षणं वक्ष्यामि' (आ० द०) ॥ १५ ॥
↑ 'तत्र वातिकमदात्ययमाइ-हित्यादि । सर्वे मदात्ययासिदोषजाः, औद्धत्येन व्य देशः । पैत्तिकमाइ–तृष्णेत्यादि । विश्रमो वस्तुविपरीतज्ञानम् । हरितवर्णस्य पुरुषस्येति हरितवर्णता पिचलक्षणं, शेषं सुगमम् । चैम्मिकमाइ-छर्दीत्यादि । स्तैमिल्यं निश्चळता । शीतपरीतस्य शीतयुक्तस्य । त्रिदोषजमाइ-शेय इत्यादि सर्वलिङ्गैः सर्वदोषलक्षणैः” ( मा० द०) ॥ १६-१८ ॥
यदाह, "ये विषस्य गुणाः प्रोक्ताः सर्वदोषप्रकोपणाः" -इत्यारभ्य, यावत् “सर्व मदात्ययं विद्यात्रिदोष" (च. चि. स्था. अ. २४) इति । एवं चरकसंवादात्सु श्रुतेऽपि बोध्यम् । विभ्रमो भ्रमः । हरितवर्णस्येत्यनेन हरितवर्णताऽपि लक्षणम् ॥ १६-१८॥
6
लिङ्गं परस्य च मदस्य वदन्ति तज्ज्ञा स्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः ॥ १९ ॥
आध्मानमुग्रमथ चोद्भिरणं विदाहः पानेऽजरां समुपगच्छति लक्षणानि ।
पानाजीर्णमाह-आध्मानमित्यादि । उद्भिरणं बान्तिः, उद्गारो वा पाने मद्ये, अजीर्णमुपगच्छति अपक्कलमुपगच्छतीति पानाजीर्णविकार इत्यर्थः ॥
पानविभ्रममाह - हृदित्यादि । कण्ठधूमः कण्ठाडूमनिर्गमवत्पीडा शिरोरुजनं शिरःशूलम् । सुरान्नविकृतेष्विति सुराविकृतेष्वन्नविकृतेषु च, भावे तः । तेषु तेध्विति नानाविकारेषु सुरामैरेयपिष्टकलड्डुकादिषु । उशन्ति इच्छन्ति । एते च परमदादयस्त्रयो न चरके पठिताः सन्निपातजेऽन्तर्भूतत्वात्; सुश्रुतेन तूत त्रिदोषजमदात्ययात्पृथगेते पठिताः, विकृत्या पूर्वलक्षणवैलक्षण्याभिधानार्थमि त्याहुः ॥ २० ॥
असायलक्षणमाहहीनेत्याहि । हीनोत्तरीष्ठं प्रलम्बमानोपरितनौष्ठम् अविशीत बहिः, अमन्ददाहमभ्यन्तरे, तैलप्रभासं तेलाचमुखमिव ॥ २१ ॥
अङ्ग्गुरुता शरीरगौखम् । विरसास्यता मुखस्य रस्यम् । विमूत्रसकियो प्रवृत्तिः शिरसि रुजा पीडा, संचिषु भेदः स्फुटनमिय' (आ० ६० ) ॥ १९ ॥ 1 'तिममन्ददादमिति विकल्पेन प्रत्येवम्यं, एकदैकत्र विरुद्ध मैद्यासंभवाद; ति, कदाचितिव्रदाह्म् (०६०) ॥ ११ ॥
7
हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते ॥ २२ ॥
पानात्ययपरमदपानाजीर्णपान विभ्रमनिदानं समाप्तम् ॥
उपद्रवानाह– हिकेल्याहि । एतैः कृच्छ्रसाध्यं भवति नत्वसाध्यं; असाध्य लक्षणेभ्यः पृथक्पाठादिति जेज्जटः । ध्वंसक विक्षेपकाख्यौ मद्यविकारौ चरके पृथक् पठितौ; तद्यथा “विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते । ध्वंसो विक्षेपकश्चैव रोगस्तस्योपजायते ॥ श्लेष्मप्रसेकः कण्ठास्यशोषः शब्दासहिष्णुता । तन्द्रानिद्राभियो गश्च ज्ञेयं ध्वंसकलक्षणम् || हृत्कण्ठरोधः संमोहश्छर्दिरङ्गरुजा ज्वरः । तृष्णा कासः शिरःशूलमेतद्विक्षेपलक्षणम् (च. चि. स्था. अ. २४ ) ” – इति; तौ च सुश्रुतेन “विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते । तस्य पानात्ययोद्दिष्टा विकाराः संभवन्ति हि” (सु. उ. तं. अ. ४७ ) इत्यनेन संग्रहीतौ बोद्धव्यौ । न वा चिकित्सा भेद स्तयोरुक्तः, यतश्चरक एवोक्तवान्– “तयोः कर्म चिकित्सा च वातिके यन्मदात्यये" ( च. चि. स्था. अ. २४) इति ॥ २२ ॥
पानात्ययपरमदपाना जीर्णपान विभ्रमनिदानं समाप्तम् ॥
No comments:
Post a Comment