Wednesday, June 1, 2022

दाहनिदानं

 1

दाहनिदानम्

त्वचं प्राप्तः स पानोष्मा पित्तरक्ताभिमूच्छितः । दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् ॥ १ ॥

मदात्ययेऽपि दाहो भवत्यतः सप्तप्रकारं दाहमाह, तत्र मयजमाह-वच मित्यादि । पानोष्मा मद्यपानकुपितपित्तस्यौष्ण्यं; समानोष्मेति पाठान्तरमयुक्तं, सुश्रुते पानात्यये श्लोकस्यास्य पाठात् । पित्तजोऽप्ययं हेतुभेदात्पृथक् पठितः ॥ १ ॥

कृत्स्नदेहानुगं रक्तमुद्रिकं दहति ध्रुवम् । स उष्यते तृष्यते च ताम्राभस्ताम्रलोचनः ॥ २ ॥
लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते ।

रक्तजमाह — कृत्स्नेत्यादि । स उष्यते समीपस्थेनेव वह्निना तप्यते, संचू ष्यत इति पाठान्तरे आचूषणवद्वेदनामनुभवति । ताम्राभ इति गात्रे । लोहगन्धा जवदन इति लोहस्येव गन्धोऽङ्गे वदने च यस्य स तथा ॥ २ ॥

पित्तज्वरसमः पित्तात्स चाप्यस्य विधिः स्मृतः ॥ ३ ॥

पित्तजमाह - पित्तेत्यादि । पित्तज्वरसमः पित्तज्वरलिङ्गयुक्तः, पित्तज्वरे त्यामाशय दुष्ट्यादयोऽधिका इति भेदः । स चाप्यस्य विधिरिति पित्तज्वरचिकित्सा ॥३॥
'उपद्रवानाह - हिक्केत्यादि । एते उपद्रवाः पानहतान् पुरुषान् भजन्ते । असितं कृष्णं, अथवा नीलं चाषपक्षप्रतिमम् । रुघिरप्रभे अतीव रक्ते  ॥ २२ ॥

तृष्णानिरोधादव्धातौ क्षीणे तेजः समुद्धतम् । सबाह्याभ्यन्तरं देहं प्रदहेन्मन्दचेतसः ॥ ४ ॥
संशुष्कगलताल्वोष्ठो जिह्वां निष्कृप्य वेपते ।

तृष्णा निरोधजमाह-तृष्णेत्यादि । तेजः समुद्धतं पित्तोष्मा वृद्ध इत्यर्थः । निष्कृष्य निःसार्य ॥ ४॥

असृजः पूर्णकोष्ठस्य दाहोऽन्यः स्यात्सुदुस्तरः ॥ ५ ॥
अवगाढशस्त्र प्रहारजनितरक्तपूर्ण कोष्ठजमाह- असृज इत्यादि । न चोक्त रक्तजेनास्य पौनरुक्तयं, कृत्स्नदेहानुगमिति वचनात् कारणमेदाच | असृजः पूर्णको ठस्येति "पूरणगुणमुहितार्थ -" इत्यादिना ज्ञापकेन कर्तरि पष्ठी, रक्तेन पूरितकोष्ठ स्पेयर्थः । कोष्टशब्देन हृदयादयो गृह्यन्ते । यदाह सुश्रुतः, "स्थानांन्यामाग्नि पक्कानां मूत्रस्य रुधिरस्य च । हृदुण्डकः फुप्फुसथ कोष्ठ इत्यभिधीयते" ( सू० चि० स्था० अ० २ ) इति ॥ ५ ॥

धातुक्षयोक्तो यो दाहस्तेन मूर्च्छातृडर्दितः । क्षामस्वरः क्रियाहीनः स सीदेद्भृशपीडितः ॥ ६ ॥

धातुक्षयजमाहू — धाखित्यादि । धातवो रसादयः । क्रियाहीनो निवेष्टः; किंवा भृशपीडितो दाहेन क्रियाहीनश्चिकित्साहीनो यदि भवेत्तदा सीदेत्रियत इत्यर्थः ॥ ६ ॥

मिर्माभिघातजोऽप्यस्ति सोऽसाध्यः सप्तमो मतः । सर्व एव च वर्ज्याः स्युः शीतगात्रस्य देहिनः ॥ ७ ॥
इति श्रीमाधवकरविरचिते माधवनिदाने दाहनिदानं समाप्तम् ॥ १९ ॥
मर्माभिघातजमाह-मर्मेत्यादि । मर्माणि शिरोहृदयबस्त्यादीनि । जेजटस्तु सप्तत्वमन्यथा गणयति, 'त्वचं प्राप्त' इत्यादिना प्रथमः, 'कृत्नदेहानुगं रक्तं'
 'तृष्णाविधारणादग्धाती रसे क्षीणे सति, तेजः समुत्थितं पित्तोष्मा वृद्ध इत्यर्थ: । सवाद्याभ्यन्तरं देहं प्रदहेत् । मन्दचेतसो विसंज्ञस्य । निष्कृष्य निःसार्य कम्पते' (आ० द० ) ॥ ४ ॥ ५ ॥
'धातवो रसादय:, तेषां क्षयेण यो दाहो भवति तेन धातुक्षयजदाहेन, क्षामस्वरो दुर्बलस्वर:' ( आ० द० ) ॥ ६ ॥

 'क्षतजेनाश्रतश्चानं शोचतो वाऽप्यनेकथा । तेनानं दतेऽत्यर्थ तृष्णादाह प्रलापवान्' इति । अस्यार्थः- पूर्वमसृजः पूर्णकोष्ठस्येत्यादिना कोष्ठस्थेन रक्तेन दाहमन मिथायेदानी प्रकारान्तरेणाह- इतनेन रक्तेन, अक्षतो भोजनं कुर्वतः शोकं कुर्वतो वाऽपि नरस्यान्यो दादो रक्तेन भवतीति संबन्ध:, तेन दाहेनाभ्यन्तरं दह्यते, तृष्णामूर्च्छा प्रलापवान् 'नरो भवति' इति शेषः । ममांभिषातजस्तु सप्तमः । सर्वेषामपि दाहाना मवस्थायां वर्जनीयत्वमाह-सर्व इति । सर्व एव हि 'दाहा' इति शेषः । शेषं सुगमम् [आ]॥ ७ ॥

इत्यत्र रक्तस्थाने पित्तं पठिला एतदादिना 'स चाप्यस्य विधिः स्मृतः इत्यन्तेन पैत्तिको द्वितीयः, तृष्णानिरोधजस्तृतीयः, 'असृजः पूर्णकोष्टस्य' इति चतुर्थः, धातुक्ष यजः पशमः, षष्टस्य तु क्षतजस्य लक्षणं पठति, “क्षतजोऽनश्नतवानं शोचतथाप्यनेकधा । तेनान्तर्दयतेऽत्यर्थ तृष्णादाहप्रलापवान्"-इति, मर्माभिघातजस्तु सप्तम इति ॥ ७ ॥
मधुकोशव्याख्यायां दाहनिदानं समाप्तम् 

No comments:

Post a Comment

अथोन्मादनिदानम्

 1 अथोन्मादनिदानम्  मदयन्त्युद्गता दोषा यस्मादुन्मार्गमार्गताः । मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः ॥ १ ॥ मदात्यये 'उन्मादमिव चापरम्...